Pages

Chapter-18

 
श्रीमद्भगवद्गीता
अष्टादशोऽध्यायः     मोक्षसन्न्यासयोगः
 
अर्जुन  उवाच
संन्यासस्य महाबाहो   तत्त्वमिच्छामि वेदितुम्
त्यागस्य च हृषीकेश   पृथक्केशिनिषूदन ॥ १८-१
 
श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं   संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं   प्राहुस्त्यागं विचक्षणाः १८-२
 
त्याज्यं दोषवदित्येके   कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म   न त्याज्यमिति चापरे ॥ १८-३
 
निश्चयं श्रृणु मे तत्र   त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र   त्रिविधः संप्रकीर्तितः ॥ १८-४
 
यज्ञदानतपःकर्म   न त्याज्यं कार्यमेव तत्
यज्ञो दानं तपश्चैव   पावनानि मनीषिणाम् ॥ १८-५
 
एतान्यपि तु कर्माणि   सङ्गं त्यक्त्वा फलानि च
कर्तव्यानीति मे पार्थ   निश्चितं मतमुत्तमम् ॥ १८-६
 
नियतस्य तु संन्यासः   कर्मणो नोपपद्यते
मोहात्तस्य परित्यागः   तामसः परिकीर्तितः ॥ १८-७
 
दुःखमित्येव यत्कर्म   कायक्लेशभयात्त्यजेत्
स कृत्वा राजसं त्यागं   नैव त्यागफलं लभेत् ॥ १८-८
 
कार्यमित्येव यत्कर्म   नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव   स त्यागः सात्त्विको मतः ॥ १८-९
 
न द्वेष्ट्यकुशलं कर्म   कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टः   मेधावी छिन्नसंशयः ॥ १८-१०
 
न हि देहभृता शक्यं   त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी   स त्यागीत्यभिधीयते ॥ १८-११
 
अनिष्टमिष्टं मिश्रं च   त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य   न तु संन्यासिनां क्वचित् ॥ १८-१२
 
पञ्चैतानि महाबाहो   कारणानि निबोध मे
सांख्ये कृतान्ते प्रोक्तानि   सिद्धये सर्वकर्मणाम् ॥ १८-१३
अधिष्ठानं तथा कर्ता   करणं च पृथग्विधम्
विविधाश्च पृथक्चेष्टा   दैवं चैवात्र पञ्चमम् ॥ १८-१४
 
शरीरवाङ्मनोभिर्यत्   कर्म प्रारभते नरः
न्याय्यं वा विपरीतं वा   पञ्चैते तस्य हेतवः ॥ १८-१५
 
तत्रैवं सति कर्तारम्   आत्मानं केवलं तु यः
पश्यत्यकृतबुद्धित्वात्   न स पश्यति दुर्मतिः ॥ १८-१६
 
यस्य नाहंकृतो भावः   बुद्धिर्यस्य न लिप्यते
हत्वापि स इमाँल्लोकान्   न हन्ति न निबध्यते ॥ १८-१७
 
ज्ञानं ज्ञेयं परिज्ञाता   त्रिविधा कर्मचोदना
करणं कर्म कर्तेति   त्रिविधः कर्मसंग्रहः ॥ १८-१८
 
ज्ञानं कर्म च कर्ता च   त्रिधैव गुणभेदतः
प्रोच्यते गुणसंख्याने   यथावच्छृणु तान्यपि ॥ १८-१९
 
सर्वभूतेषु येनैकं   भावमव्ययमीक्षते
अविभक्तं विभक्तेषु   तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२०
 
पृथक्त्वेन तु यज्ज्ञानं   नानाभावान्पृथग्विधान्
वेत्ति सर्वेषु भूतेषु   तज्ज्ञानं विद्धि राजसम् ॥ १८-२१
 
यत्तु कृत्स्नवदेकस्मिन्   कार्ये सक्तमहैतुकम्
अतत्त्वार्थवदल्पं च   तत्तामसमुदाहृतम् ॥ १८-२२
 
नियतं सङ्गरहितम्   अरागद्वेषतः कृतम्
अफलप्रेप्सुना कर्म   यत्तत्सात्त्विकमुच्यते ॥ १८-२३
 
यत्तु कामेप्सुना कर्म   साहङ्कारेण वा पुनः
क्रियते बहुलायासं   तद्राजसमुदाहृतम् ॥ १८-२४
 
अनुबन्धं क्षयं हिंसाम्   अनपेक्ष्य च पौरुषम्
मोहादारभ्यते कर्म   यत्तत्तामसमुच्यते ॥ १८-२५
 
मुक्तसङ्गोऽनहंवादी   धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः   कर्ता सात्त्विक उच्यते ॥ १८-२६
 
रागी कर्मफलप्रेप्सुः   लुब्धो हिंसात्मकोऽशुचिः
हर्षशोकान्वितः कर्ता   राजसः परिकीर्तितः ॥ १८-२७
 
अयुक्तः प्राकृतः स्तब्धः   शठो नैष्कृतिकोऽलसः
विषादी दीर्घसूत्री च   कर्ता तामस उच्यते ॥ १८-२
बुद्धेर्भेदं धृतेश्चैव   गुणतस्त्रिविधं श्रृणु
प्रोच्यमानमशेषेण   पृथक्त्वेन धनञ्जय ॥ १८-२
 
प्रवृत्तिं च निवृत्तिं च   कार्याकार्ये भयाभये
बन्धं मोक्षं च या वेत्ति   बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०
 
यया धर्ममधर्मं च   कार्यं चाकार्यमेव च
अयथावत्प्रजानाति   बुद्धिः सा पार्थ राजसी ॥ १८-३
 
अधर्मं धर्ममिति या   मन्यते तमसाऽवृता
सर्वार्थान्विपरीतांश्च   बुद्धिः सा पार्थ तामसी ॥ १८-३
 
धृत्या यया धारयते   मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या   धृतिः सा पार्थ सात्त्विकी ॥ १८-३
 
यया तु धर्मकामार्थान्   धृत्या धारयतेऽर्जुन
प्रसङ्गेन फलाकाङ्क्षी   धृतिः सा पार्थ राजसी ॥ १८-३
 
यया स्वप्नं भयं शोकं   विषादं मदमेव च
न विमुञ्चति दुर्मेधा   धृतिः सा पार्थ तामसी ॥ १८-३
 
सुखं त्विदानीं त्रिविधं   श्रृणु मे भरतर्षभ
अभ्यासाद्रमते यत्र   दुःखान्तं च निगच्छति ॥ १८-३
 
यत्तदग्रे विषमिव   परिणामेऽमृतोपमम्
तत्सुखं सात्त्विकं प्रोक्तम्   आत्मबुद्धिप्रसादजम् ॥ १८-३
 
विषयेन्द्रियसंयोगात्   यत्तदग्रेऽमृतोपमम्
परिणामे विषमिव   तत्सुखं राजसं स्मृतम् ॥ १८-३
 
यदग्रे चानुबन्धे च   सुखं मोहनमात्मनः
निद्रालस्यप्रमादोत्थं   तत्तामसमुदाहृतम् ॥ १८-३
 
न तदस्ति पृथिव्यां वा   दिवि देवेषु वा पुनः
सत्त्वं प्रकृतिजैर्मुक्तं   यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-
 
ब्राह्मणक्षत्रियविशां   शूद्राणां च परंतप
कर्माणि प्रविभक्तानि   स्वभावप्रभवैर्गुणैः ॥ १८-
 
शमो दमस्तपः शौचं   क्षान्तिरार्जवमेव च
ज्ञानं विज्ञानमास्तिक्यं   ब्रह्मकर्म स्वभावजम् ॥ १८-
 
शौर्यं तेजो धृतिर्दाक्ष्यं   युद्धे चाप्यपलायनम्
दानमीश्वरभावश्च   क्षात्रं कर्म स्वभावजम् ॥ १८-
कृषिगौरक्ष्यवाणिज्यं   वैश्यकर्म स्वभावजम्
परिचर्यात्मकं कर्म   शूद्रस्यापि स्वभावजम् ॥ १८-
 
स्वे स्वे कर्मण्यभिरतः   संसिद्धिं लभते नरः
स्वकर्मनिरतः सिद्धिम्   यथा विन्दति तच्छृणु ॥ १८-
 
यतः प्रवृत्तिर्भूतानां   येन सर्वमिदं ततम्
स्वकर्मणा तमभ्यर्च्य   सिद्धिं विन्दति मानवः ॥ १८-
 
श्रेयान्स्वधर्मो विगुणः   परधर्मात्स्वनुष्ठितात्
स्वभावनियतं कर्म   कुर्वन्नाप्नोति किल्बिषम् ॥ १८-
 
सहजं कर्म कौन्तेय   सदोषमपि न त्यजेत्
सर्वारम्भा हि दोषेण   धूमेनाग्निरिवावृताः ॥ १८-
 
असक्तबुद्धिः सर्वत्र   जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धिं परमां   संन्यासेनाधिगच्छति ॥ १८-
 
सिद्धिं प्राप्तो यथा ब्रह्म   तथाप्नोति निबोध मे
समासेनैव कौन्तेय   निष्ठा ज्ञानस्य या परा ॥ १८- ५०
 
बुद्ध्या विशुद्धया युक्तः   धृत्याऽत्मानं नियम्य च
शब्दादीन् विषयांस्त्यक्त्वा   रागद्वेषौ व्युदस्य च ॥ १८- ५१
 
विविक्तसेवी लघ्वाशी   यतवाक्कायमानसः
ध्यानयोगपरो नित्यं   वैराग्यं समुपाश्रितः ॥ १८- ५२
 
अहङ्कारं बलं दर्पं   कामं क्रोधं परिग्रहम्
विमुच्य निर्ममः शान्तः   ब्रह्मभूयाय कल्पते ॥ १८- ५३
 
ब्रह्मभूतः प्रसन्नात्मा   न शोचति न काङ्क्षति
समः सर्वेषु भूतेषु   मद्भक्तिं लभते पराम् ॥ १८- ५४
 
भक्त्या मामभिजानाति   यावान्यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा   विशते तदनन्तरम् ॥ १८- ५५
 
सर्वकर्माण्यपि सदा   कुर्वाणो मद्व्यपाश्रयः
मत्प्रसादादवाप्नोति   शाश्वतं पदमव्ययम् ॥ १८- ५६
 
चेतसा सर्वकर्माणि   मयि संन्यस्य मत्परः
बुद्धियोगमुपाश्रित्य   मच्चित्तः सततं भव ॥ १८- ५७
 
मच्चित्तः सर्वदुर्गाणि   मत्प्रसादात्तरिष्यसि
अथ चेत्त्वमहङ्कारात्   न श्रोष्यसि विनङ्क्ष्यसि ॥ १८- ५८
 
यदहङ्कारमाश्रित्य   न योत्स्य इति मन्यसे
मिथ्यैष व्यवसायस्ते   प्रकृतिस्त्वां नियोक्ष्यति ॥ १८- ५९
 
स्वभावजेन कौन्तेय   निबद्धः स्वेन कर्मणा
कर्तुं नेच्छसि यन्मोहात्   करिष्यस्यवशोऽपि तत् ॥ १८- ६०
 
ईश्वरः सर्वभूतानां   हृद्देशेऽर्जुन तिष्ठति
भ्रामयन्सर्वभूतानि   यन्त्रारूढानि मायया ॥ १८- ६१
 
तमेव शरणं गच्छ   सर्वभावेन भारत
तत्प्रसादात्परां शान्तिं   स्थानं प्राप्स्यसि शाश्वतम् ॥ १८- ६२
 
इति ते ज्ञानमाख्यातं   गुह्याद्गुह्यतरं मया
विमृश्यैतदशेषेण   यथेच्छसि तथा कुरु ॥ १८- ६३
 
सर्वगुह्यतमं भूयः   श्रृणु मे परमं वचः
इष्टोऽसि मे दृढमिति   ततो वक्ष्यामि ते हितम् ॥ १८- ६४
 
मन्मना भव मद्भक्तः   मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते   प्रतिजाने प्रियोऽसि मे ॥ १८- ६५
 
सर्वधर्मान्परित्यज्य   मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यः   मोक्षयिष्यामि मा शुचः ॥ १८- ६६
 
इदं ते नातपस्काय   नाभक्ताय कदाचन
न चाशुश्रूषवे वाच्यं   न च मां योऽभ्यसूयति ॥ १८- ६७
 
य इमं परमं गुह्यं   मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां कृत्वा   मामेवैष्यत्यसंशयः ॥ १८- ६८
 
न च तस्मान्मनुष्येषु   कश्चिन्मे प्रियकृत्तमः
भविता न च मे तस्मात्   अन्यः प्रियतरो भुवि ॥ १८- ६९
 
अध्येष्यते च य इमं   धर्म्यं संवादमावयोः
ज्ञानयज्ञेन तेनाहम्   इष्टः स्यामिति मे मतिः ॥ १८- ७०
 
श्रद्धावाननसूयश्च   श्रृणुयादपि यो नरः
सोऽपि मुक्तः शुभाँल्लोकान्   प्राप्नुयात्पुण्यकर्मणाम् ॥ १८- ७१
 
कच्चिदेतच्छ्रुतं पार्थ   त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसंमोहः   प्रनष्टस्ते धनञ्जय ॥ १८- ७२
 
 
अर्जुन  उवाच
नष्टो मोहः स्मृतिर्लब्धा   त्वत्प्रसादान्मयाच्युत
स्थितोऽस्मि गतसन्देहः   करिष्ये वचनं तव ॥ १८- ७३
 
सञ्जय उवाच
इत्यहं वासुदेवस्य   पार्थस्य च महात्मनः
संवादमिममश्रौषम्   अद्भुतं रोमहर्षणम् ॥ १८- ७४
 
व्यासप्रसादाच्छ्रुतवान्   एतद्गुह्यमहं परम्
योगं योगेश्वरात्कृष्णात्   साक्षात्कथयतः स्वयम् ॥ १८- ७५
 
राजन्संस्मृत्य संस्मृत्य   संवादमिममद्भुतम्
केशवार्जुनयोः पुण्यं   हृष्यामि च मुहुर्मुहुः ॥ १८- ७६
 
तच्च संस्मृत्य संस्मृत्य   रूपमत्यद्भुतं हरेः
विस्मयो मे महान् राजन्   हृष्यामि च पुनः पुनः ॥ १८- ७७
 
यत्र योगेश्वरः कृष्णः   यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिः   ध्रुवा नीतिर्मतिर्मम ॥ १८- ७८
 
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः  ॥ १८ ॥


Chapter-17

 
श्रीमद्भगवद्गीता
सप्तदशोऽध्यायः     श्रद्धात्रयविभागयोगः
 
अर्जुन  उवाच
ये शास्त्रविधिमुत्सृज्य   यजन्ते श्रद्धयाऽन्विताः
तेषां निष्ठा तु का कृष्ण   सत्त्वमाहो रजस्तमः ॥ १७-१
 
श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा   देहिनां सा स्वभावजा
सात्त्विकी राजसी चैव   तामसी चेति तां श्रृणु १७-२
 
सत्त्वानुरूपा सर्वस्य   श्रद्धा भवति भारत
श्रद्धामयोऽयं पुरुषः   यो यच्छ्रद्धः स एव सः ॥ १७-३
 
यजन्ते सात्त्विका देवान्   यक्षरक्षांसि राजसाः
प्रेतान्भूतगणांश्चान्ये   यजन्ते तामसा जनाः ॥ १७-४
 
अशास्त्रविहितं घोरं   तप्यन्ते ये तपो जनाः
दम्भाहङ्कारसंयुक्ताः   कामरागबलान्विताः ॥ १७-५
 
कर्षयन्तः शरीरस्थं   भूतग्राममचेतसः
मां चैवान्तःशरीरस्थं   तान्विद्ध्यासुरनिश्चयान् ॥ १७-६
 
आहारस्त्वपि सर्वस्य   त्रिविधो भवति प्रियः
यज्ञस्तपस्तथा दानं   तेषां भेदमिमं श्रृणु ॥ १७-७
 
आयुःसत्त्वबलारोग्य   सुखप्रीतिविवर्धनाः
रस्याः स्निग्धाः स्थिरा हृद्याः   आहाराः सात्त्विकप्रियाः ॥ १७-८
 
कट्वम्ललवणात्युष्ण   तीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टाः   दुःखशोकामयप्रदाः ॥ १७-९
 
यातयामं गतरसं   पूति पर्युषितं च यत्
उच्छिष्टमपि चामेध्यं   भोजनं तामसप्रियम् ॥ १७-१०
 
अफलाकाङ्क्षिभिर्यज्ञः   विधिदृष्टो य इज्यते
यष्टव्यमेवेति मनः   समाधाय स सात्त्विकः ॥ १७-११
 
अभिसंधाय तु फलं   दम्भार्थमपि चैव यत्
इज्यते भरतश्रेष्ठ   तं यज्ञं विद्धि राजसम् ॥ १७-१२
 
विधिहीनमसृष्टान्नं   मन्त्रहीनमदक्षिणम्
श्रद्धाविरहितं यज्ञं   तामसं परिचक्षते ॥ १७-१३
देवद्विजगुरुप्राज्ञ   पूजनं शौचमार्जवम्
ब्रह्मचर्यमहिंसा च   शारीरं तप उच्यते ॥ १७-१४
 
अनुद्वेगकरं वाक्यं   सत्यं प्रियहितं च यत्
स्वाध्यायाभ्यसनं चैव   वाङ्मयं तप उच्यते ॥ १७-१५
 
मनःप्रसादः सौम्यत्वं   मौनमात्मविनिग्रहः
भावसंशुद्धिरित्येतत्   तपो मानसमुच्यते ॥ १७-१६
 
श्रद्धया परया तप्तं   तपस्तत्त्रिविधं नरैः
अफलाकाङ्क्षिभिर्युक्तैः   सात्त्विकं परिचक्षते ॥ १७-१७
 
सत्कारमानपूजार्थं   तपो दम्भेन चैव यत्
क्रियते तदिह प्रोक्तं   राजसं चलमध्रुवम् ॥ १७-१८
 
मूढग्राहेणात्मनो यत्   पीडया क्रियते तपः
परस्योत्सादनार्थं वा   तत्तामसमुदाहृतम् ॥ १७-१९
 
दातव्यमिति यद्दानं   दीयतेऽनुपकारिणे
देशे काले च पात्रे च   तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०
 
यत्तु प्रत्युपकारार्थं   फलमुद्दिश्य वा पुनः
दीयते च परिक्लिष्टं   तद्दानं राजसं स्मृतम् ॥ १७-२१
 
अदेशकाले यद्दानम्   अपात्रेभ्यश्च दीयते
असत्कृतमवज्ञातं   तत्तामसमुदाहृतम् ॥ १७-२२
 
ओं तत्सदिति निर्देशः   ब्रह्मणस्त्रिविधः स्मृतः
ब्राह्मणास्तेन वेदाश्च   यज्ञाश्च विहिताः पुरा ॥ १७-२३
 
तस्मादोमित्युदाहृत्य   यज्ञदानतपःक्रियाः
प्रवर्तन्ते विधानोक्ताः   सततं ब्रह्मवादिनाम् ॥ १७-२४
 
तदित्यनभिसन्धाय   फलं यज्ञतपःक्रियाः
दानक्रियाश्च विविधाः   क्रियन्ते मोक्षकाङ्क्षि ॥ १७-२५
 
सद्भावे साधुभावे च   सदित्येतत्प्रयुज्यते
प्रशस्ते कर्मणि तथा   सच्छब्दः पार्थ युज्यते ॥ १७-२६
 
यज्ञे तपसि दाने च   स्थितिः सदिति चोच्यते
कर्म चैव तदर्थीयं   सदित्येवाभिधीयते ॥ १७-२७
 
अश्रद्धया हुतं दत्तं   तपस्तप्तं कृतं च यत्
असदित्युच्यते पार्थ   न च तत्प्रेत्य नो इह ॥ १७-२
 
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः  ॥ १७ ॥