श्रीमद्भगवद्गीता
Śrīmadbhagavadgītā
एकादशोऽध्यायः
ekadashōdhyāyaḥ
विश्वरूपदर्शनयोगः
vishvarōpadarshanayogaḥ
अर्जुन उवाच
मदनुग्रहाय परमम् गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१
arjuna uvāca
madanugrahāya paramam guhyamadhyātmasaṁjñitam
yattvayōktaṁ vacastēna mōhō'yaṁ vigatō mama
भवाप्ययौ हि भूतानाम् श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२
bhavāpyayau hi bhūtānām śrutau vistaraśō mayā
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam
एवमेतद्यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ११-३
ēvamētadyathāttha tvam ātmānaṁ paramēśvara
draṣṭumicchāmi tē rūpam aiśvaraṁ puruṣōttama
मन्यसे यदि तच्छक्यम् मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वम् दर्शयाऽत्मानमव्ययम् ॥ ११-४
manyasē yadi tacchakyam mayā draṣṭumiti prabhō
yōgēśvara tatō mē tvam darśayātmānamavyayam
श्रीभगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५
śrībhagavānuvāca
paśya mē pārtha rūpāṇi śataśō'tha sahasraśaḥ
nānāvidhāni divyāni nānāvarṇākr̥tīni ca
पश्यादित्यान्वसून्रुद्रान् अश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ॥ ११-६
paśyādityānvasūnrudrān aśvinau marutastathā
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata
इहैकस्थं जगत्कृत्स्नम् पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ११-७
ihaikasthaṁ jagatkr̥tsnam paśyādya sacarācaram
mama dēhē guḍākēśa yaccānyaddraṣṭumicchasi
न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८
na tu māṁ śakyasē draṣṭum anēnaiva svacakṣuṣā
divyaṁ dadāmi tē cakṣuḥ paśya mē yōgamaiśvaram
सञ्जय उवाच
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९
sañjaya uvāca
ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram
अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् ॥ ११-१०
anēkavaktranayanam anēkādbhutadarśanam
anēkadivyābharaṇam divyānēkōdyatāyudham
दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥ ११-११
divyamālyāmbaradharam divyagandhānulēpanam
sarvāścaryamayaṁ dēvam anantaṁ viśvatōmukham
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥ ११-१२
divi sūryasahasrasya bhavēdyugapadutthitā
yadi bhāḥ sadr̥śī sā syāt bhāsastasya mahātmanaḥ
तत्रैकस्थं जगत्कृत्स्नम् प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३
tatraikasthaṁ jagatkr̥tsnam pravibhaktamanēkadhā
apaśyaddēvadēvasya śarīrē pāṇḍavastadā
ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवम् कृताञ्जलिरभाषत ॥ ११-१४
tataḥ sa vismayāviṣṭaḥ hr̥ṣṭarōmā dhanañjayaḥ
praṇamya śirasā dēvam kr̥tāñjalirabhāṣata
अर्जुन उवाच
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थम् मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५
arjuna uvāca
paśyāmi dēvāṁstava dēva dēhē sarvāṁstathā bhūtaviśēṣasaṅghān
brahmāṇamīśaṁ kamalāsanastham mr̥ṣīṁśca sarvānuragāṁśca divyān
11-16
अनेकबाहूदरवक्त्रनेत्रम् पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६
anēkabāhūdaravaktranētraṁ paśyāmi tvā sarvatō'nantarūpam
nāntaṁ na madhyaṁ na punastavādim paśyāmi viśvēśvara viśvarūpa
11-17
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tējōrāśiṁ sarvatōdīptimantam
paśyāmi tvāṁ durnirīkṣyaṁ samantāt ddīptānalārkadyutimapramēyam
11-18
त्वमक्षरं परमं वेदितव्यम् त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८
tvamakṣaraṁ paramaṁ vēditavyam tvamasya viśvasya paraṁ nidhānam
tvamavyayaḥ śāśvatadharmagōptā sanātanastvaṁ puruṣō matō mē
11-19
अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रम् स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९
anādimadhyāntamanantavīryam anantabāhuṁ śaśisūryanētram
paśyāmi tvāṁ dīptahutāśavaktraṁ svatējasā viśvamidaṁ tapantam
11-20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदम् लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०
dyāvāpr̥thivyōridamantaraṁ hi vyāptaṁ tvayaikēna diśaśca sarvāḥ
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdam lōkatrayaṁ pravyathitaṁ mahātman
11-21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१
amī hi tvā surasaṅghā viśanti kēcidbhītāḥ prāñjalayō gr̥ṇanti
svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ
11-22
रुद्रादित्या वसवो ये च साध्याः विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२
rudrādityā vasavō yē ca sādhyāḥ viśvē'śvinau marutaścōṣmapāśca
gandharvayakṣāsurasiddhasaṅghāḥ vīkṣantē tvāṁ vismitāścaiva sarvē
11-23
रूपं महत्ते बहुवक्त्रनेत्रम् महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालम् दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥ ११-२३
rūpaṁ mahattē bahuvaktranētram mahābāhō bahubāhūrupādam
bahūdaraṁ bahudaṁṣṭrākarālam dr̥ṣṭvā lōkāḥ pravyathitāstathāham
11-24
नभःस्पृशं दीप्तमनेकवर्णम् व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४
nabhaḥspr̥śaṁ dīptamanēkavarṇam vyāttānanaṁ dīptaviśālanētram
dr̥ṣṭvā hi tvāṁ pravyathitāntarātmā dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō
11-25
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ ११-२५
daṁṣṭrākarālāni ca tē mukhāni dr̥ṣṭvaiva kālānalasaṁnibhāni
diśō na jānē na labhē ca śarma prasīda dēvēśa jagannivāsa
11-26
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६
amī ca tvāṁ dhr̥tarāṣṭrasya putrāḥ sarvē sahaivāvanipālasaṅghaiḥ
bhīṣmō drōṇaḥ sūtaputrastathāsau sahāsmadīyairapi yōdhamukhyaiḥ
11-27
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७
vaktrāṇi tē tvaramāṇā viśanti daṁṣṭrākarālāni bhayānakāni
kēcidvilagnā daśanāntarēṣu sandr̥śyantē cūrṇitairuttamāṅgaiḥ
11-28
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखाः द्रवन्ति ।
तथा तवामी नरलोकवीराः विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२ ८
tathā tavāmī naralōkavīrāḥ viśanti vaktrāṇyabhivijvalanti
11-29
यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकाः स्तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२ ९
tathaiva nāśāya viśanti lōkāḥ stavāpi vaktrāṇi samr̥ddhavēgāḥ
11-30
लेलिह्यसे ग्रसमानः समन्तात् लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०
lēlihyasē grasamānaḥ samantāt lōkānsamagrānvadanairjvaladbhiḥ
tējōbhirāpūrya jagatsamagram bhāsastavōgrāḥ pratapanti viṣṇō
11-31
आख्याहि मे को भवानुग्ररूपः नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३ १
vijñātumicchāmi bhavantamādyam na hi prajānāmi tava pravr̥ttim
11-32
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृध्दः लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३ २
kālō'smi lōkakṣayakr̥tpravr̥ddhaḥ lōkānsamāhartumiha pravr̥ttaḥ
r̥tē'pi tvā na bhaviṣyanti sarvē yē'vasthitāḥ pratyanīkēṣu yōdhāḥ
11-33
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३ ३
mayaivaitē nihatāḥ pūrvamēva nimittamātraṁ bhava savyasācin
11-34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३ ४
mayā hatāṁstvaṁ jahi mā vyathiṣṭhāḥ yudhyasva jētāsi raṇē sapatnān
11-35
सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदं भीतभीतः प्रणम्य ॥ ११-३ ५
ētacchrutvā vacanaṁ kēśavasya kr̥tāñjalirvēpamānaḥ kirīṭī
namaskr̥tvā bhūya ēvāha kr̥ṣṇam sagadgadaṁ bhītabhītaḥ praṇamya
11-36
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३ ६
sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca
rakṣāṁsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṅghāḥ
11-37
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३ ७
ananta dēvēśa jagannivāsa tvamakṣaraṁ sadasattatparaṁ yat
11-38
त्वमादिदेवः पुरुषः पुराणः स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ११-३ ८
vēttāsi vēdyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa
11-39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३ ९
namō namastē'stu sahasrakr̥tvaḥ punaśca bhūyō'pi namō namastē
11-40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वम् सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११- ४ ०
anantavīryāmitavikramastvam sarvaṁ samāpnōṣi tatō'si sarvaḥ
11-41
सखेति मत्वा प्रसभं यदुक्तम् हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदम् मया प्रमादात्प्रणयेन वापि ॥ ११- ४ १
ajānatā mahimānaṁ tavēdam mayā pramādātpraṇayēna vāpi
11-42
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षम् तत्क्षामये त्वामहमप्रमेयम् ॥ ११- ४ २
ēkō'thavāpyacyuta tatsamakṣam tatkṣāmayē tvāmahamapramēyam
11-43
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११- ४ ३
na tvatsamō'styabhyadhikaḥ kutō'nyaḥ lōkatrayē'pyapratimaprabhāva
11-44
तस्मात्प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ११- ४ ४
pitēva putrasya sakhēva sakhyuḥ priyaḥ priyāyārhasi dēva sōḍhum
11-45
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपम् प्रसीद देवेश जगन्निवास ॥ ११- ४ ५
tadēva mē darśaya dēva rūpam prasīda dēvēśa jagannivāsa
11-46
किरीटिनं गदिनं चक्रहस्तम् मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ११- ४ ६
tēnaiva rūpēṇa caturbhujēna sahasrabāhō bhava viśvamūrtē
11-47
श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदम् रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यम् यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११- ४ ७
mayā prasannēna tavārjunēdam rūpaṁ paraṁ darśitamātmayōgāt
tējōmayaṁ viśvamanantamādyam yanmē tvadanyēna na dr̥ṣṭapūrvam
11-48
न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११- ४ ८
ēvaṁrūpaḥ śakya ahaṁ nr̥lōkē draṣṭuṁ tvadanyēna kurupravīra
11-49
मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वम् तदेव मे रूपमिदं प्रपश्य ॥ ११- ४ ९
vyapētabhīḥ prītamanāḥ punastvam tadēva mē rūpamidaṁ prapaśya
11-50
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनम् भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११- ५०
ityarjunaṁ vāsudēvastathōktvā svakaṁ rūpaṁ darśayāmāsa bhūyaḥ
āśvāsayāmāsa ca bhītamēnam bhūtvā punaḥsaumyavapurmahātmā
11-51
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपम् तवसौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११- ५१
dr̥ṣṭvēdaṁ mānuṣaṁ rūpam tava saumyaṁ janārdana
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ
11-52
श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपम् दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११- ५२
sudurdarśamidaṁ rūpam dr̥ṣṭavānasi yanmama
dēvā apyasya rūpasya nityaṁ darśanakāṅkṣiṇaḥ
11-53
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुम् दृष्टवानसि मां यथा ॥ ११- ५३
śakya ēvaṁvidhō draṣṭum dr̥ṣṭavānasi māṁ yathā
11-54
भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन ।
ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ११- ५४
11-55
मत्कर्मकृन्मत्परमः मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११- ५५
nirvairaḥ sarvabhūtēṣu yaḥ sa māmēti pāṇḍava
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥ १ ॥
ōṁ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkṛṣṇārjunasaṁvādē vishvarōpadarshanayōgō nāma ekadashōdhyāyaḥ
the Upanishads, the science of the Eternal,
the scripture of Yoga, the dialogue between Shri Krshna and Arjuna,
the eleventh chapter entitled ‘The yoga of the vision of the universal form’ ends here.
No comments:
Post a Comment