श्रीमद्भगवद्गीता
Śrīmadbhagavadgītā
त्रयोदशोऽध्यायः
क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१
arjuna uvāca
prakṛtiṁ puruṣaṁ caiva kṣetraṁ kṣetrajñameva ca
etadvēditumicchāmi jñānaṁ jñeyaṁ ca keśava
श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२
śrībhagavānuvāca
idaṁ śarīraṁ kauntēya kṣētramityabhidhīyatē
ētadyō vētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३
kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata
kṣētrakṣētrajñayōrjñānaṁ yattajjñānaṁ mataṁ mama
तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु ॥ १३-४
tatkṣētraṁ yacca yādr̥kca yadvikāri yataśca yat
sa ca yō yatprabhāvaśca tatsamāsēna mē śr̥ṇu
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चीतैः ॥ १३-५
r̥ṣibhirbahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६
mahābhūtānyahaṅkārō buddhiravyaktamēva ca
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७
icchā dvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ
ētatkṣētraṁ samāsēna savikāramudāhr̥tam
अमानित्वमदम्भित्वम् अहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८
amānitvamadambhitvam ahiṁsā kṣāntirārjavam
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ
इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।
जन्ममृत्युजराव्याधिः दुःखदोषानुदर्शनम् ॥ १३-९
indriyārthēṣu vairāgyam anahaṅkāra ēva ca
janmamr̥tyujarāvyādhiḥ duḥkhadōṣānudarśanam
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ १३-१०
asaktiranabhiṣvaṅgaḥ putradāragr̥hādiṣu
nityaṁ ca samacittatvam iṣṭāniṣṭōpapattiṣu
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वम् अरतिर्जनसंसदि ॥ १३-११
mayi cānanyayōgēna bhaktiravyabhicāriṇī
viviktadēśasēvitvam aratirjanasaṁsadi
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोन्यथा ॥ १३-१२
adhyātmajñānanityatvaṁ tattvajñānārthadarśanam
ētajjñānamiti prōktam ajñānaṁ yadatō'nyathā
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३
jñēyaṁ yattatpravakṣyāmi yajjñātvāmr̥tamaśnutē
anādimatparaṁ brahma na sattannāsaducyatē
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४
sarvataḥpāṇipādaṁ tat sarvatōkṣiśirōmukham
sarvataḥśrutimallōkē sarvamāvr̥tya tiṣṭhati
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५
sarvēndriyaguṇābhāsaṁ sarvēndriyavivarjitam
asaktaṁ sarvabhr̥ccaiva nirguṇaṁ guṇabhōktr̥ ca
13-16
बहिरन्तश्च भूतानाम् अचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६
bahirantaśca bhūtānām acaraṁ caramēva ca
sūkṣmatvāttadavijñēyaṁ dūrasthaṁ cāntikē ca tat
13-17
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७
avibhaktaṁ ca bhūtēṣu vibhaktamiva ca sthitam
bhūtabhartr̥ ca tajjñēyaṁ grasiṣṇu prabhaviṣṇu ca
13-18
ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८
jyōtiṣāmapi tajjyōtiḥ tamasaḥ paramucyatē
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam
13-19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९
iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ
madbhakta ētadvijñāya madbhāvāyōpapadyatē
13-20
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १३-२०
prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi
vikārāṁśca guṇāṁścaiva viddhi prakr̥tisambhavān
13-21
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१
kāryakaraṇakartr̥tvē hētuḥ prakr̥tirucyatē
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē
13-22
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२
puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijānguṇān
kāraṇaṁ guṇasaṅgō'sya sadasadyōnijanmasu
13-23
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३
upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ
paramātmēti cāpyuktō dēhē'sminpuruṣaḥ paraḥ
13-24
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैःसह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४
ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē
13-25
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५
dhyānēnātmani paśyanti kēcidātmānamātmanā
anyē sāṅkhyēna yōgēna karmayōgēna cāparē
13-26
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६
anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē
tē'pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇāḥ
13-27
यावत्सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥ १३-२७
yāvatsañjāyatē kiñcit sattvaṁ sthāvarajaṅgamam
kṣētrakṣētrajñasaṁyōgāt tadviddhi bharatarṣabha
13-28
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२ ८
vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati
13-29
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽत्मानं ततो याति परां गतिम् ॥ १३-२ ९
na hinastyātmanātmānaṁ tatō yāti parāṁ gatim
13-30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथाऽत्मानम् अकर्तारं स पश्यति ॥ १३-३०
prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam akartāraṁ sa paśyati
13-31
यदा भूतपृथग्भावम् एकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३ १
tata ēva ca vistāraṁ brahma sampadyatē tadā
13-32
अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३ २
śarīrasthō'pi kauntēya na karōti na lipyatē
13-33
यथा सर्वगतं सौक्ष्म्यात् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽत्मा नोपलिप्यते ॥ १३-३ ३
sarvatrāvasthitō dēhē tathātmā nōpalipyatē
13-34
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३ ४
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata
13-35
क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३ ५
bhūtaprakr̥timōkṣaṁ ca yē viduryānti tē param
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे त्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १ ॥
ōṁ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkṛṣṇārjunasaṁvādē kshetrakshetrajnavibhāgayōgō nāma trayōdashōdhyāyaḥ
the Upanishads, the science of the Eternal,
the scripture of Yoga, the dialogue between Shri Krshna and Arjuna,
the thirteenth chapter entitled ‘The yoga of discrimination between domain and the knower of the domain’ ends here.
No comments:
Post a Comment